Welcome to my blog, a sacred space for spiritual seekers.

I’m Annu Pandey (Asht Sakhi Vrind Devi Dasi), exploring the depths of Vaishnavism, the wisdom of the Bhagavad Gita, and the intersection of spirituality, human experience, and society. This space is for thoughtful reflections, meaningful questions, and practical wisdom drawn from spiritual teachings and lived experience. Join me as we explore life’s complexities with faith, discernment, compassion, and divine guidance.

दामोदर लीला कथा (संस्कृत छंद )




श्रीमद्भागवत महापुराण के दसवें सर्ग में गंगा नदी के तट पर सुखदेव गोस्वामी और परीक्षित के बीच संवाद जारी है दसवें सर्ग के नौवें और दसवें अध्याय में उखल बंधन लीला और यमल-अर्जुन उद्धर (यमल-अर्जुन का उद्धार) का विवरण है। पेड़) कहानियाँ जो कार्तिक के महीने के दौरान बहुत शुभ मानी जाती हैं और भगवान के भक्तों द्वारा चतुर्मास के इस चौथे महीने के दौरान बहुत प्यार और भक्ति के साथ सुनाई और सुनाई जाती हैं। कार्तिक कृष्ण का प्रिय महीना है। प्रस्तुत हैं मूल श्लोक:-

सर्ग १०, अध्याय ९, उखल बंधन लीला

श्रीशुक उवाच
एकदा गृहदासीषु यशोदा नन्दगेहिनी ।
कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥
यानि यानीह गीतानि तद्बालचरितानि च ।
दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥ २ ॥

क्षौमं वास: पृथुकटितटे बिभ्रती सूत्रनद्धं
पुत्रस्‍नेहस्‍नुतकुचयुगं जातकम्पं च सुभ्रू: ।
रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ३ ॥

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरि: ।
गृहीत्वा दधिमन्थानं न्यषेधत् प्रीतिमावहन् ॥ ४ ॥

तमङ्कमारूढमपाययत् स्तनं
स्‍नेहस्‍नुतं सस्मितमीक्षती मुखम् ।
अतृप्तमुत्सृज्य जवेन सा यया-
वुत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५ ॥

सञ्जातकोप: स्फुरितारुणाधरं
सन्दश्य दद्भ‍िर्दधिमन्थभाजनम् ।
भित्त्वा मृषाश्रुर्द‍ृषदश्मना रहो
जघास हैयङ्गवमन्तरं गत: ॥ ६ ॥

उत्तार्य गोपी सुश‍ृतं पय: पुन:
प्रविश्य संद‍ृश्य च दध्यमत्रकम् ।
भग्नं विलोक्य स्वसुतस्य कर्म त-
ज्जहास तं चापि न तत्र पश्यती ॥ ७ ॥

उलूखलाङ्‌घ्रेरुपरि व्यवस्थितं
मर्काय कामं ददतं शिचि स्थितम् ।
हैयङ्गवं चौर्यविशङ्कितेक्षणं
निरीक्ष्य पश्चात् सुतमागमच्छनै: ॥ ८ ॥

तामात्तयष्टिं प्रसमीक्ष्य सत्वर-
स्ततोऽवरुह्यापससार भीतवत् ।
गोप्यन्वधावन्न यमाप योगिनां
क्षमं प्रवेष्टुं तपसेरितं मन: ॥ ९ ॥

अन्वञ्चमाना जननी बृहच्चल-
च्छ्रोणीभराक्रान्तगति: सुमध्यमा ।
जवेन विस्रंसितकेशबन्धन-
च्युतप्रसूनानुगति: परामृशत् ॥ १० ॥

कृतागसं तं प्ररुदन्तमक्षिणी
कषन्तमञ्जन्मषिणी स्वपाणिना ।
उद्वीक्षमाणं भयविह्वलेक्षणं
हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११ ॥
त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।
इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥ १२ ॥

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च य: ॥ १३ ॥
तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥

तद् दाम बध्यमानस्य स्वार्भकस्य कृतागस: ।
द्‌व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥ १५ ॥

यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे ।
तदपि द्‌व्यङ्गुलं न्यूनं यद् यदादत्त बन्धनम् ॥ १६ ॥

एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।
गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७ ॥

स्वमातु: स्विन्नगात्राया विस्रस्तकबरस्रज: ।
द‍ृष्ट्वा परिश्रमं कृष्ण: कृपयासीत् स्वबन्धने ॥ १८ ॥

एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता ।
स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९ ॥

नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया ।
प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् ॥ २० ॥

नायं सुखापो भगवान्देहिनां गोपिकासुत: ।
ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥ २१ ॥

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभु: ।
अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२ ॥

पुरा नारदशापेन वृक्षतां प्रापितौ मदात् ।
नलकूवरमणिग्रीवाविति ख्यातौ श्रियान्वितौ ॥ २३ ॥
   

सर्ग १०, अध्याय १०, यमल-अर्जुन वृक्षों का उद्धार

श्रीराजोवाच
कथ्यतां भगवन्नेतत्तयो: शापस्य कारणम् ।
यत्तद् विगर्हितं कर्म येन वा देवर्षेस्तम: ॥ १ ॥

श्रीशुक उवाच
रुद्रस्यानुचरौ भूत्वा सुद‍ृप्तौ धनदात्मजौ ।
कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २ ॥
वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ ।
स्त्रीजनैरनुगायद्भ‍िश्चेरतु: पुष्पिते वने ॥ ३ ॥

अन्त: प्रविश्य गङ्गायामम्भोजवनराजिनि ।
चिक्रीडतुर्युवतिभिर्गजाविव करेणुभि: ॥ ४ ॥

यद‍ृच्छया च देवर्षिर्भगवांस्तत्र कौरव ।
अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५ ॥

तं द‍ृष्ट्वा व्रीडिता देव्यो विवस्त्रा: शापशङ्किता: ।
वासांसि पर्यधु: शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥

तौ द‍ृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ ।
तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ॥ ७ ॥

श्रीनारद उवाच
न ह्यन्यो जुषतो जोष्यान्बुद्धिभ्रंशो रजोगुण: ।
श्रीमदादाभिजात्यादिर्यत्र स्त्री द्यूतमासव: ॥ ८ ॥

हन्यन्ते पशवो यत्र निर्दयैरजितात्मभि: ।
मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ॥ ९ ॥

देवसंज्ञितमप्यन्ते कृमिविड्भस्मसंज्ञितम् ।
भूतध्रुक्तत्कृते स्वार्थं किं वेद निरयो यत: ॥ १० ॥

देह: किमन्नदातु: स्वं निषेक्तुर्मातुरेव च ।
मातु: पितुर्वा बलिन: क्रेतुरग्ने: शुनोऽपि वा ॥ ११ ॥

एवं साधारणं देहमव्यक्तप्रभवाप्ययम् ।
को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसत: ॥ १२ ॥

असत: श्रीमदान्धस्य दारिद्रय‍ं परमञ्जनम् ।
आत्मौपम्येन भूतानि दरिद्र: परमीक्षते ॥ १३ ॥

यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् ।
जीवसाम्यं गतो लिङ्गैर्न तथाविद्धकण्टक: ॥ १४ ॥

दरिद्रो निरहंस्तम्भो मुक्त: सर्वमदैरिह ।
कृच्छ्रं यद‍ृच्छयाप्नोति तद्धि तस्य परं तप: ॥ १५ ॥

नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिण: ।
इन्द्रियाण्यनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६ ॥

दरिद्रस्यैव युज्यन्ते साधव: समदर्शिन: ।
सद्भ‍ि: क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७ ॥

साधूनां समचित्तानां मुकुन्दचरणैषिणाम् ।
उपेक्ष्यै: किं धनस्तम्भैरसद्भ‍िरसदाश्रयै: ॥ १८ ॥

तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयो: ।
तमोमदं हरिष्यामि स्त्रैणयोरजितात्मनो: ॥ १९ ॥

यदिमौ लोकपालस्य पुत्रौ भूत्वा तम:प्लुतौ ।
न विवाससमात्मानं विजानीत: सुदुर्मदौ ॥ २० ॥
अतोऽर्हत: स्थावरतां स्यातां नैवं यथा पुन: ।
स्मृति: स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।
वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यत: ॥ २२ ॥

श्रीशुक उवाच
एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम् ।
नलकूवरमणिग्रीवावासतुर्यमलार्जुनौ ॥ २३ ॥

ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरि: ।
जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४ ॥

देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ ।
तत्तथा साधयिष्यामि यद् गीतं तन्महात्मना ॥ २५ ॥

इत्यन्तरेणार्जुनयो: कृष्णस्तु यमयोर्ययौ ।
आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् ॥ २६ ॥

बालेन निष्कर्षयतान्वगुलूखलं तद्
दामोदरेण तरसोत्कलिताङ्‍‍घ्रिबन्धौ ।
निष्पेततु: परमविक्रमितातिवेप-
स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७ ॥

तत्र श्रिया परमया ककुभ: स्फुरन्तौ
सिद्धावुपेत्य कुजयोरिव जातवेदा: ।
कृष्णं प्रणम्य शिरसाखिललोकनाथं
बद्धाञ्जली विरजसाविदमूचतु: स्म ॥ २८ ॥

कृष्ण कृष्ण महायोगिंस्त्वमाद्य: पुरुष: पर: ।
व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा
विदु:॥ २९ ॥

त्वमेक: सर्वभूतानां देहास्वात्मेन्द्रियेश्वर: ।
त्वमेव कालो भगवान् विष्णुरव्यय ईश्वर: ॥ ३० ॥
त्वं महान् प्रकृति: सूक्ष्मा रज:सत्त्वतमोमयी ।
त्वमेव पुरुषोऽध्यक्ष: सर्वक्षेत्रविकारवित् ॥ ३१ ॥
गृह्यमाणैस्त्वमग्राह्यो विकारै: प्राकृतैर्गुणै: ।
को न्विहार्हति विज्ञातुं प्राक्‌सिद्धं गुणसंवृत: ॥ ३२ ॥

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।
आत्मद्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नम: ॥ ३३ ॥

यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिण: ।
तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतै: ॥ ३४ ॥
स भवान्सर्वलोकस्य भवाय विभवाय च ।
अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५ ॥

नम: परमकल्याण नम: परममङ्गल ।
वासुदेवाय शान्ताय यदूनां पतये नम: ॥ ३६ ॥

अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ ।
दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७ ॥

वाणी गुणानुकथने श्रवणौ कथायां
हस्तौ च कर्मसु मनस्तव पादयोर्न: ।
स्मृत्यां शिरस्तव निवासजगत्प्रणामे
द‍ृष्टि: सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥

श्रीशुक उवाच
इत्थं सङ्कीर्तितस्ताभ्यां भगवान्गोकुलेश्वर: ।
दाम्ना चोलूखले बद्ध: प्रहसन्नाह गुह्यकौ ॥ ३९ ॥

श्रीभगवानुवाच
ज्ञातं मम पुरैवैतद‍ृषिणा करुणात्मना ।
यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रह: कृत: ॥ ४० ॥

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् ।
दर्शनान्नो भवेद् बन्ध: पुंसोऽक्ष्णो: सवितुर्यथा ॥ ४१ ॥

तद्गच्छतं मत्परमौ नलकूवर सादनम् ।
सञ्जातो मयि भावो वामीप्सित: परमोऽभव: ॥ ४२ ॥

श्रीशुक उवाच
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुन: पुन: ।
बद्धोलूखलमामन्‍त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३ ॥


No comments